आचार्य मम्मटेन प्रतिपादित काव्य लक्षण
आचार्यमम्मटेन प्रतिपादितं काव्यलक्षणं
तददोषौशब्दार्थों सगुणावनलङ्कृती पुनः क्वापि।
यौ शब्दार्थों दोषरहितौ गुणसहितौ क्वचिदपि अलङ्काररहितौ भवेताम्, तौ काव्यम् अस्ति। काव्यलक्षणे आचार्य मम्मटात् पूर्वम् तथा पश्चाद् अपि अनेकैः आचार्यैः विचार: कृतः । यथा-
भामहः शब्दार्थों सहितौ काव्यम् ।
दण्डी शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली।
विश्वनाथः वाक्यं रसात्मकं काव्यम् ।
जगन्नाथः रमणीयार्थ प्रतिपादकः शब्दः काव्यम्।
आचार्यमम्मटः शब्दार्थौं अर्थात् शब्दार्थयोः युगलम् एव काव्यम् इति कथयति | तत् शब्दार्थ युगमं त्रिभिः विशेषणैः युक्तः भवितव्यम् । एतेषां त्रयाणां व्याख्या नीचैः दत्ता| अस्ति-
१. अदोषौ- दोषरहितं शब्दार्थयुगलं काव्यम् अस्ति परं जगति सर्वथा निर्दुष्टं वस्तु र्नास्ति । अतः आचार्यमम्मटस्य कथनस्य अभिप्रायोऽस्ति । यत् काव्यत्वस्य विधा तकच्युतसंस्कृत्यादयः दोषाः तत्र न भवेयुः । यदि काचित् रचना सहृदयानां हृदयानि आह्लादयति अथ च तत्र कश्चित् शास्त्रोक्तदोषः अपि वर्तते परं सः दोषः काव्यत्वस्य विधातकः नास्ति तदा सा रचना काव्यम् अस्ति निश्चयेन
२. सगुणौ- गुणसहितं शब्दार्थयुगलं काव्यम् अस्ति। माधुर्यं ओजः प्रसादः च एतै गुणैः युक्तं दोषरहितं शब्दार्थयुगलं काव्यम् इति न तु गुणरहितम् | गुणाः यद्यपि रसनिष्ठाः परं रसाभिव्यञ्जना तु शब्दार्थमाध्यमेन भवति। अतः परम्परया गुणाः शब्दार्थयोः धर्माः कथ्यन्ते ।
३. अनलङ्कृती पुनः क्वापि- क्वचिद् अलङ्काररहितं शब्दार्थयुगलं काव्यं भवति। अलङ्कारहितं शब्दार्थयुगलं अर्थात् काव्ये यदि स्पष्टरूपेण अलङ्कारप्रतीतिः न भवेत् तदापि गुणसहितं दोषरहितं शब्दार्थयुगलं काव्यं भवति। परं अलङ्कारेण सर्वथा रहितं शब्दार्थयुगलं काव्यं न भवति कदापि ।
उदाहरणतः
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा,
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः |
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ,
रेवारोधसि वेत सीतरुतले- चेतः समुत्कण्ठते ।।
प्रस्तुतपद्ये स्फुटरूपेण न कस्यचित् अलङ्कारस्य प्रतीतिः तथापि काव्यम् इदम् अस्ति। अत्र विप्रलम्भश्रृंगारस्य प्राधान्येन रसवद् अलङ्कारः अपि नास्ति। परं माधुर्यगुणस्य अभिव्यक्तिः अस्ति। अतः पद्यम् इदं काव्यम् अस्ति। आचार्यमम्मटेन प्रदत्तं काव्यलक्षणं सामाजिकस्य कवेः च उभयोः दृष्ट्या पूर्णम् अस्ति। अस्मिन् लक्षणे सर्वेषां प्राचीनमतानां समन्वितं रूपं दृष्टिगोचरं भवति ।
Comments
Post a Comment