Posts

आचार्य मम्मटेन प्रतिपादित काव्य लक्षण

  आचार्यमम्मटेन प्रतिपादितं काव्यलक्षणं   तददोषौशब्दार्थों सगुणावनलङ्कृती पुनः क्वापि।  यौ शब्दार्थों दोषरहितौ गुणसहितौ क्वचिदपि अलङ्काररहितौ भवेताम्, तौ काव्यम् अस्ति। काव्यलक्षणे आचार्य मम्मटात् पूर्वम् तथा पश्चाद् अपि अनेकैः आचार्यैः विचार: कृतः । यथा- भामहः शब्दार्थों सहितौ काव्यम् । दण्डी शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली।  विश्वनाथः वाक्यं रसात्मकं काव्यम् । जगन्नाथः रमणीयार्थ प्रतिपादकः शब्दः काव्यम्।  आचार्यमम्मटः शब्दार्थौं अर्थात् शब्दार्थयोः युगलम् एव काव्यम् इति कथयति | तत् शब्दार्थ युगमं त्रिभिः विशेषणैः युक्तः भवितव्यम् । एतेषां त्रयाणां व्याख्या नीचैः दत्ता| अस्ति- १. अदोषौ - दोषरहितं शब्दार्थयुगलं काव्यम् अस्ति परं जगति सर्वथा निर्दुष्टं वस्तु र्नास्ति । अतः आचार्यमम्मटस्य कथनस्य अभिप्रायोऽस्ति । यत् काव्यत्वस्य विधा तकच्युतसंस्कृत्यादयः दोषाः तत्र न भवेयुः । यदि काचित् रचना सहृदयानां हृदयानि आह्लादयति अथ च तत्र कश्चित् शास्त्रोक्तदोषः अपि वर्तते परं सः दोषः काव्यत्वस्य विधातकः नास्ति तदा सा रचना काव्यम् अस्ति निश्चयेन २. सगुणौ - गुणसहितं शब्दार्थयुगलं काव्य